Wednesday, April 21, 2010

Mrityunjaya Stotram श्रीमृत्युञ्यस्तोत्रम्


श्रीमृत्युञ्यस्तोत्रम्
Mrityunjaya Stotram 

रत्नसानुशरासनं रजताद्रिश्रृङ्गनिकेतन  शिञ्जिनीकृतपद्मगेश्वरमच्युतानलसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदशालयैरबिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः १॥
पञ्जपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेव भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः २॥
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोह पङ्कजासनपद्मलोचनपूजिताकग्रिसरोरुहम् ।
देवसिद्धतरङ्गिणीकरसिक्तशीतजटाध  चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ३॥
कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृक्षवाहनं नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ४॥
यक्षराजसखं भगाक्षिहरं भुजङ्गविभूषणं शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ५॥
भेषजं भवरोगिणामखिलापदामपहारिणं दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तफलप्रदं निखिलाघसङ्घनिबर्हणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ६॥
भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं सर्वभूतपतिं परात्परमप्रमेयमनूपमम् ।
भूमिवारिनभोहुताशन सोमपालितस्वाकृतिं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ७॥
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं संहरन्तमथ प्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमावृतं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ८॥
रुद्रं पशुपतिं स्थाणुं नीलण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ९॥
कालकण्ठं कलामूर्त्ति कालाग्निं कालनाशनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १०॥
नीलकण्ठं विरूपाक्षं निर्मलं निरुपद्रवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ११॥
वामदेवं महादेवं लोकनाथं जगद्रुरुम ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १२॥
देवदेवं जगन्नाथं देवेशमृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १३॥
अनन्तमव्ययं शान्तमक्षमालाधरं हरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १४॥
आनन्दं परमं नित्यं कैवल्यपदकारणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥१५॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १६॥
॥ इति श्रीपद्मपुराणान्तर्गत उत्तरखण्डे श्रीमृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥
  
Note: Stanza 1 to 8 refers to Chandrasekhar Ashtakam 

     Stanza 9 to 16 refers to Maha Mrityunjaya Stotram 

_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

No comments: