Wednesday, July 29, 2009

Various Aspects (Roop) of Devi महादेवी विभिन्न स्वरूपोंका ध्यान

महादेवी विभिन्न स्वरूपोंका ध्यान



१. भगवती दुर्गा

विद्युद्दमसप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभि: करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे ॥



२. भगवती ललिता

सिन्दूरारूणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरूहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतिं सौम्यां रत्नघटस्थरक्तचणां ध्यायेत् परामम्बिकाम् ॥



३. भगवती गायत्री

रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्त्रजं मणिगणैर्यक्तां कुमारीमिमाम् ।
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च दधतीं हंसाधिरूढां भजे ॥



४. भगवती अन्नपूर्णा

सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रक्तवस्त्रां पीनोत्तुङ्गस्तनाढयामभिनवविलसद्यौवनारम्भरम्याम् ।
नानालङ्कारयुक्तां सरसिजनयनामिन्दुसंक्रान्तमूर्ति देवीं पाशाङ्कुशाढयमभयवरकरामन्नपूर्णां नमामि ॥

५. भगवती सर्वमंगला

हेमाभां करूणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां द्वात्रिंशद्दलपषोडशाष्टदलयुक्पद्मस्थितां सुस्मिताम् ।
भक्तानां धनदां वर च दधतीं वामेन हस्तेन तद् दक्षणाभयमातुलुङ्गसुफलं श्रीमङ्गलां भावये ॥



६. भगवती विजया

शङ्खा चक्रं च पाशं सृणिमपि सुमहाखेटखड्गौ सुचापं बाणं कह्लारपुष्पं तदनु करगतं मातुलुङ्ग दधानाम् ।
उद्यद्बार्लावर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां देवीं पीताम्बाराढयां कुचभरनमितां संततं भावयामि ॥



७. भगवती प्रत्यंगिरा

श्यामाभां च त्रिनेत्रां तां सिंहवक्त्रां चतुर्भजाम् ।
ऊध् र्वकेशीं च सिंहस्थां चन्द्राङ्कितशरोरुहाम् ॥
कपालशूलडमरुनागपाशधरां शुभाम् ।
प्रत्यङ्गिरां भजे नित्यं सर्वशत्रुविनाशिनीम् ॥



८. भगवती सौभाग्यलक्ष्मी

भूयाद्भयो द्विपद्माभवरकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना ।
रक्तौघाबधद्धमौलिर्विमलतरदुकूलार्तवालोपनाढया पद्माक्षी पद्मनाभोरसि कृतवसति: श्री श्रियै न: ॥



९. भगवती अपाराजिता

नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् ।
नीलकुञ्चितकेशाग्र्यां निम्नमाभीवलित्रयाम् ॥
वराभयकराभोजां प्रणतार्तिविनाशिनीम् ।
पीताम्बरवरोपेतां भूषणस्त्रग्विभञषिताम् ॥
वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जिनीम् ।
शङ्खचक्रगदाभीतिरम्यहस्तां त्रिलोचनाम् ॥
सर्वकामप्रदां देवीं ध्यायेत् तामपराजिताम् ॥



_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips

No comments: