Tuesday, May 26, 2009

Shree Govinda Strotam श्रीगोविन्दस्तोत्रम्

श्रीगोविन्दस्तोत्रम्
Govinda Strotam
This strotam is taken from Garg Samhita published by Gita Press
Book Code : 517
Title : Garg Sanhita
Author : Gita Press
Language : Hindi/Sanskrit




चिन्तामणिप्रकरसद्मसु कल्पवृक्षलक्षातेषु सुरभीरभिपालयन्यम् ।
लक्ष्मीसहस्त्रशतसम्भ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि ॥१॥
वेणुं क्वणन्तमरविन्ददलायताक्षं बर्हावतंसमसिताम्बुदसुन्दरांगम् ।
कंदर्पकोटिकमनीयविशेषशोभं गोविन्दमादिपुरुषं तमहं भजामि ॥२॥
आलोलचन्द्रकलसद्वनमाल्यवंशीरत्नाङ्गदं प्रणयकेलिकलाविलासम् ।
श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि ॥३॥
अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि ॥४॥
अद्वैतमच्यतमननादिमनन्तरूपमाद्यं पुराणपुरुषं नवयौवनं च ।
वेदेषु दुर्लभमदुर्लभमात्मभक्तौ गोविन्दमादिपुरुषं तमहं भजामि ॥५॥
पन्थास्तु कोटिशतवत्सरसम्प्रगम्यो वायोरथापि मनसो मुनिपुंगवानाम् ।
सोsप्यस्ति यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे गोविन्दमादिपुरुषं तमहं भजामि ॥६॥
एकोsप्यसौ रचयितुं जगदण्डकोटि यच्छक्तरस्ति जगदण्डचया यदन्य: ।
अण्डान्तरस्थपरमाणुचयान्तरस्थं गोविन्दमादिपुरुषं तमहं भजामि ॥७॥
यद्भावभावितधियो मनुजास्तथैव सम्प्राप्य रूपमहिमासनयानभूषा: ।
सूक्तैर्यमेव निगमप्रथितै: स्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि ॥८॥
आनन्दचिन्मयरसप्रतिभाविताभिस्ताभिर्य एव निजरूपयता कलाभि: ।
गोलिक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥९॥
प्रेमाञ्जनच्छुरितभक्तिविलोचनेन सन्त: सदैव हृदयsपि विलोकयन्ति ।
यं श्यामसुन्दरमचिन्त्यगुणस्वरूपं गोविन्दमादिपुरुषं तमहं भजामि ॥१०॥
रामादिमूर्तिषु कलानियमेन तिष्ठन् नानावतारमकरोद्भुवनेषु किंतु ।
कृष्ण: स्वयं समभवत् परम: पुमान् यो गोविन्दमादिपुरुषं तमहं भजामि ॥११॥
यस्य प्रभा प्रभावतो जगदण्डकोटि-कोटिष्वशेवसुधादिविभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहं भजामि ॥१२॥
माया हि यस्य जगदण्डशतानि सूते त्रैगुण्यतद्विषयवेदवितायमाना ।
सत्त्वावलम्बिपरसत्तवविशुद्धसत्त्वं गोविन्दमादिपुरुषं तमहं भजामि ॥१३॥
आनन्दचिन्मयरसात्मतया मनस्सु य: प्राणिनां प्रतिफलन् स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्त्रं गोविन्दमादिपुरुषं तमहं भजामि ॥१४॥
गोलोकनाम्नि निजधाम्नि तले च तस्य देवीमहेशहहरिधामसु तेषु तेषु च ।
ते ते प्रभावनिचया विहिताश्च येन गोविन्दमादिपुरुषं तमहं भजामि ॥१५॥
सृष्टिस्थितिप्रलयसाधनशक्तिरेका छायेव यस्य यस्य भुवनानि विभर्ति दुर्गा ।
इच्छानुरूपमपि यस्य च चेष्टते सा गोविन्दमादिपुरुषं तमहं भजामि ॥१६॥
क्षीरं यथा दधिविकारविशेषयोगात् संजायते नहि तत: पृथगस्ति हेतो: ।
य: शम्भुतामपि तथा समुपैति कार्याद गोविन्दमादिपुरुषं तमहं भजामि ॥१७॥
दीपार्चिरेव हि दशान्तरमभ्युपेत्य दीपायेत विवृतहेतुसमानधर्मा ।
यस्तदृगेव च विष्णुतया विभाति गोविन्दमादिपुरुषं तमहं भजामि ॥१८॥
य: कारणार्णवजले भजाति स्म योग-निद्रामनन्तजगदण्डसरोमकूप: ।
आधारशक्तिमवलम्ब्य परां स्वमूर्तिं गोविन्दमादिपुरुषं तमहं भजामि ॥१९॥
यस्यैकनिश्श्वसितकालमथावलम्ब्य जीवन्ति लोमविलजा जगदण्डनाथा: ।
विष्णुर्महान स इस यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि ॥२०॥
भास्वान् यथाश्मसकलेषु निजेषु तेज: स्वीयं कियत् प्रकटयत्यपि तद्वदत्र ।
ब्रह्मा य एष जगदण्डविधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि ॥२१॥
यत्पादपल्लवयुगं विनिधाय कुभ्य-द्वन्द्वे प्रणामसमये स गणाधिराज: ।
विघ्नान् निहन्तुमलमस्य जगत्त्रयस्य गोविन्दमादिपुरुषं तमहं भजामि ॥२२॥
अग्निर्महीगगनमभ्बुमरुद्दिशश्च कालस्तथाssत्ममनसीति जगत्त्रयाणि ।
यस्माद् भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादिपुरुषं तमहं भजामि ॥२३॥
यच्चक्षुरेव सविता सकलग्रहाणां राजा समस्तसुमूर्तिरषतेजा: ।
यस्जाज्ञया भ्रमति सम्भृतकालचक्री गोविन्दमादिपुरुषं तमहं भजामि ॥२४॥
धर्मोsथ पापनिचय: श्रुतयस्तपांसी ब्रह्मादिकीटपतगावधयश्च जीवा: ।
यद्दत्तमात्रविभवप्रकटप्रभावा गोविन्दमादिपुरुषं तमहं भजामि ॥२५॥
यस्त्विन्द्रगोपथवेन्द्रमहो स्वकर्म-बुद्धानुरूपफलभाजनमातनोति ।
कर्माणि निर्दहति किंतु च भक्तिभाजां गोविन्दमादिपुरुषं तमहं भजामि ॥२६॥
यं क्रोधकामसहजप्रणयादिभीति-वात्सल्यमोहगरुगौरवसेव्यभावै: ।
संचिन्त्य तस्य सदृशीं तनुमापुरेते गोविन्दमादिपुरुषं तमहं भजामि ॥२७॥



______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips